संस्कृत-शब्दकोशः

शतानक शतानीक

शतानन्द

वाचस्पत्यम्

शतानन्द ||‍ पु० शतमानन्दयति अण् । गोतमपुत्रे अहल्या- गर्भजे १ मुनिभेदे । स च जनकराजपुरोहितः । ३ देवकी- नन्दने मेदि० ४ ब्रह्मणि हेमच० ५ विष्णुरथे त्रिका० । ६ शतजनानन्दके त्रि० ।


शब्दकल्पद्रुमः

शतानन्दः || पुं, (शतं बहुलः आनन्दो यस्य ।)
मुनिभेदः । स तु जनकराजपुरोहितः । देवकी- नन्दनः । इति मेदिनी ॥ ब्रह्मा । गौतममुनिः । इति हेमचन्द्रः ॥ विष्णुरथः । इति त्रिकाण्ड- शेषः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ७९ । “स्वक्षः स्वङ्ग शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ॥”)



Correction: