वाचस्पत्यम्
शतावरी || स्त्री शतमावृणोति आ + वृ—अच् गौरा० ङीष् । १ शतमूल्याम् अमरः । “शतावरी गुरुः शीता तिक्ता {??} रसायनी । मेधाग्यिपुष्टिदा स्निग्धा नेत्र्या गुल्मातिसारजित् । शुक्रस्तन्यकरी बल्या वातपित्ता- स्रशोथजित्” भावप्र० । २ इन्द्रभार्य्यायां शब्दच० । ३ शट्यां त्रिका० ।
शब्दकल्पद्रुमः
शतावरी || स्त्री (शतं आवृणतेति । आ + वृ + अच् । गौरादित्वात् ङीष् ।)
शतमूली । इत्य- मरः ॥ इन्द्रभार्य्या । इति शब्दरत्नावली ॥ शटी । इति मेदिनी ॥