वाचस्पत्यम्
शतिक || त्रि० शतेन क्रीतः, तस्य विकारः तस्येदं वा ठन् । १ शतेन क्रीते पदार्थे । २ तद्विकारे ३ तत्सम्बन्धिनि च । शतमस्मै वृद्धिः आयः लाभः शुलकम् उपदा वा दी- यते ठन् । ४ वृद्ध्यादिरूपण शतदानसम्प्रदाने । पक्षे यत् शत्य तत्रार्थे ।
शब्दकल्पद्रुमः
शतिकः || त्रि (शत + “शताच्च ठन् यतावशते ।” ५ । १ । २१ । इति ठन् ।)
शतेन क्रीतः । शतस्य विकारः । शतसम्बन्धी । इति सिद्धान्त- कौमुदी ॥