वाचस्पत्यम्
शद्रु || त्रि० शद—क्रु १ पतनककर्त्तरि २ गन्तरि च ।
शब्दकल्पद्रुमः
शद्रुः || त्रि (शद शाते + “दाधेट्सिशदसदो रुः ।” ३ । २ । १५९ । इति रुः ।) पतनकर्त्ता । गन्ता । इति शदधातो रुप्रत्ययेन निष्पन्नमेतत् । इति व्याकरणम् ॥