संस्कृत-शब्दकोशः

शफ शफराधिप

शफर

वाचस्पत्यम्

शफर ||‍ पुंस्त्री० शफं राति रा—क । (पुँटी) मत्स्यभेदे अमरः स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

शफरः || पुं, स्त्री, मत्स्यविशेषः । इत्यमरः ॥ पुँटी इति भाषा ॥ (यथा, —
“कैवर्त्तकर्कशकरात् शफरश्च्युतोऽपि जाले पुनर्निपतितः सकरो विपाकः ॥” यथा च । “अगाधजलसञ्चारी विकारो न च रोहितः । गण्डूषजलमात्रेण शफरी फर्फरायते ॥” इत्युद्भटः ॥)



Correction: