संस्कृत-शब्दकोशः

शमान्तक शमित

शमि

वाचस्पत्यम्

शमि(मी) ||‍ स्त्री शम—इन् वा ङीप् । (शाँव) १ वृक्षभेदे “शमी तिक्ता कटुः शीता कषाया रेचनी सघुः । कम्प- कासश्रमश्वासकुष्टार्शःकृमिजित् स्मृता” मावप्र० । २ शिम्बायाच्च (शुँटि) हेमच० । ३ बाङ्खजौ मेदि० ।


शब्दकल्पद्रुमः

शमिः || स्त्री शिम्बा । इति हेमचन्द्रः ॥



Correction: