संस्कृत-शब्दकोशः

शमीगर्भ शमीपत्त्री

शमीधान्य

वाचस्पत्यम्

शमीधान्य ||‍ न० शमी शिग्यैव धान्यम् । शिम्बात्मके माध- मुद्गादौ धान्ये अमरः । “शमीजाः शिम्बिजाः शिम्बा तराः सूप्याश्च वैदलाः। वैदलामधुरा रूक्षाः कषायाः कटुपाकिनः । पातलाः कफपित्तघ्ना बद्वमूत्रमला हिमाः । ऋते सुद्गमसृराभ्या- मन्ये त्वाध्मानकारकाः” । सुद्गमसूरसोरनाष्मानदारि- त्वमन्यवैदलापेक्षया न तु सर्वता एतयोरपि किञ्चिदा- ध्मानकारित्वदर्शनात्” भावप्र० “शूकधान्यं शमीधान्यं समातीतं प्रशस्यते । परतो वातकृद्रूणं ध्रायेणाभिननं गुरु । यवगोधूममाषाश्च तिलाश्चाभिनया हिताः । पुराणाविरसारूक्षा न तथार्धकरा कताः” राक्षवसुभः ।


शब्दकल्पद्रुमः

शमीधान्यं || क्ली (शमी यज्ञादिकर्म्म तदर्थं धान्यम् ।)
माषादिः । इत्यमरः ॥ तत्पर्य्यायगुणाः । “शमीजाः शिम्बिजाः शिम्बातराः सूप्याश्च वैदलाः । वैदला मधुरा रूक्षाः कषायाः कटुपाकिनः ॥ वातलाः कफपित्तघ्ना बद्धमूत्रमला हिमाः । ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारकाः ॥” मुद्गमसूरयोराध्मानकारित्वमन्यद्वैदलापेक्षया । नतु सर्व्वथा । एतयोरपि किञ्चिदाध्मान- कारित्वदर्शनात् । इति भावप्रकाशः ॥ * ॥
अपि च । “शूकधान्यं शमीधान्यं समातीतं प्रशस्यते । परतो वातकृद्रूक्षं प्रायेणातिनवं गुरु ॥ यवगोधूममाषाश्च तिलाश्चातिनवा हिताः । पुराणा विरसा रूक्षा न तथार्थकरा मताः ॥” इति राजवल्लभः ॥



Correction: