वाचस्पत्यम्
शमीर || पु० अल्पा शमी अल्पार्थे र “क्वचित् स्वार्धिधा अपि प्रत्ययाः प्रकृतितो लिञ्जवचनान्यतिवर्त्तन्ते” इति भा- ष्योक्तेः पुंस्त्वम् । क्षुद्रायां शभ्याम् अमरः ।
शब्दकल्पद्रुमः
शमीरः || पुं, (ह्नस्वा शमी । “कुटीशमीशुण्डाभ्यो रः ।” ५ । ३ । ८८ । इति रः ।)
अल्पा शमी । इत्यमरः ॥