वाचस्पत्यम्
शम्पाक || पु० शं शिवं पाके फले वा यस्य । १ आरग्बधे अमरः । २ विपाके ३ यावके च हेमच० ।
शब्दकल्पद्रुमः
शम्पाकः || पुं, आरग्वधः । इत्यमरः ॥ विपाकः । यावकः । इति हेमचन्द्रः ॥ (हस्तिनापुरवासी कश्चिद्ब्राह्मणः । यथा, महाभारते । १२ । १७६ । २३ । “इत्येतद्धास्तिनपुरे ब्राह्मणेनोपवर्णितम् । सम्पाकेन पुरा मह्यं तस्मात्त्यागः परो मतः ॥”)