वाचस्पत्यम्
शम्बरकन्द || पु० शम्बरः श्रेष्ठः कन्दो यस्य । वाराहीकन्दे राजनि० ।
शब्दकल्पद्रुमः
शम्बरकन्दः || पुं, (शम्बरनामकः कन्दः ।) वाराही- कन्दः । इति राजनिर्घण्टः ॥