वाचस्पत्यम्
शम्बाकृत is an alternate of सम्बाकृत. स(श)म्बाकृत || त्रि० स(श)म्बेन प्रातलोमेन कृष्टं क्षेत्रं स(श) म्ब + डाच्—कृ—क्त । १ अनुलोमकर्षानन्तरं प्रतिलोमकृष्टे द्विःकृष्टे क्षेत्रादौ अमरः । भावे क्त । २ प्रतिलोभकर्षणे न०
वाचस्पत्यम्
शम्बाकृत || त्रि० शम्बं कृष्टमप्यनुलोममाकृष्यते शम्ब + कर्ष- णार्थे डाच् + कृ—क्त । अनुलोमेन द्विरावृत्ते कृष्टे क्षेत्रे अमरः ।
शब्दकल्पद्रुमः
शम्बाकृतं || त्रि (शम्ब + “कृञो द्वितीयतृतीयशम्ब- बीजात् कृषौ ।” ५ । ४ । ५८ । इति डाच् ।)
द्बिवार- कृष्टक्षेत्रम् । तत्पर्य्यायः । द्विगुणाकृतम् २ द्बितीया- कृतम् ३ द्बिहल्यम् ४ द्विसीत्यम् ५ । इत्यमरः ॥