संस्कृत-शब्दकोशः

शम्भ शम्भली

शम्भल

वाचस्पत्यम्

शम्भल ||‍ पु० शम्भं कल्याणदायकं तीर्थं लाति—ला क । १ ग्रा- मभेदे यत्र कल्की भविष्यति तस्मिन् । २ कुट्टिन्यां स्त्री अमरः गौरा० ङीष् ।


शब्दकल्पद्रुमः

शम्भलः || पुं, ग्रामविशेषः । अधुना सम्बल-मोरदा- वाद इति नाम्ना ख्यातः । तत्र षष्टितीर्थानि सन्ति कल्की चाविर्भूय सहस्रं समाः स्थास्यति । यथा, —
“शम्भले वसतस्तस्य सहस्रं परिवत्सराः । व्यतीता भ्रातृपुत्त्रस्वज्ञातिसम्बन्धिभिः सह ॥ शम्भले शुशुभे श्रेणीसभापणकचत्वरैः । पताकाध्वजचित्राद्यैर्यथेन्द्रस्यामरावती ॥ यत्रास्ते षष्टितीर्थानां सम्भवः शम्भलेऽभवत् । मृत्यौ मोक्षः क्षितौ कल्केरकल्कस्य क्षयाश्रयः ॥ वनोपवनसन्ताननानाकुसुमसङ्कुलैः । शोभितं शम्भलग्रामं मन्ये मोक्षोपमं भुवि ॥ महीमाश्वास्य भगवान् निजजन्मकृतोद्यमः । शम्भलग्रामविप्रर्षिमाविवेश परात्मकः ॥ सुमत्यां विष्णुयशसा गर्भमाधत्त वैष्णवम् । द्वादश्यां शुक्लपक्षस्य माधवे मासि माधवः ॥ जातो ददृशतुः पुत्त्रं पितरौ हृष्टमानसौ । धात्रीमाता महाषष्ठी नाडीच्छेत्री तदाम्बिका ॥ गङ्गोदकक्लेदमोक्षा सावित्री मार्ज्जनोद्यता । तस्य विष्णोरनन्तस्य मातृकादात् पयःसुधाम् ॥ सुमतिस्तं सुतं लब्ध्वा विष्णुं जिष्णुं जगत्प्रभुम् । पूर्णकामा विप्रमुख्यानाहूयादात् गवां शतम् ॥ तं बालकं नराकारं विष्णुं मत्वा मुनीश्वराः । कल्किं कल्कविनाशार्थमाविर्भूतं विदुर्ब्बुधाः । नामाकुर्व्वंस्ततस्तस्य कल्किरित्यभिविश्रुतम् ॥” इति कल्किपुराणे १ अध्यायः ॥



Correction: