वाचस्पत्यम्
शम्भु || पु० शम् + मू—डु । १ महादेले अमरः । २ ब्रह्मणि ३ वृद्धे मेदि० ४ विष्णौ हला० ५ सिद्धे शब्दर० । ६ श्वेतार्के शब्दर०
शब्दकल्पद्रुमः
शम्भुः || पुं, (शं मङ्गलं भवत्यस्मादिति । शम् + “मितद्र्वादिभ्य उपसंख्यानम् ।” ३ । २ । १८० । इत्यस्य वार्त्तिकोक्त्या डुः ।)
शिवः । इत्यमरः ॥ (यथा, भागवते । ४ । ७ । ५७ । “एतद्भगवतः शम्भोः कर्म्मदक्षाध्वरद्रुहः । श्रुतं भागवतात् शिष्यादुद्धवान्मे बृहस्पतेः ॥” एकादशरुद्राणामन्यतमः । यथा, विष्णुपुराणे । १ । ५ । १२३ — १२४ । “हरश्च बहुरूपश्च त्र्यम्बकश्चापराजतः । वृषाकपिश्च शम्भुश्च कपर्द्दी रैवतस्तथा ॥ मृगव्याधश्च शर्व्वश्च कपाली च महामुने । एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः ॥)
ब्रह्मा । (यथा, महाभारते । १ । ६४ । ४५ । “तामुवाच महाराज भूमिं भूमिपतिः प्रभुः । प्रभवः सर्व्वभूतानामीशः शम्भुः प्रजापतिः ॥”)
बुद्धः । इति मेदिनी ॥ विष्णुः । इति हलायुधः ॥ (यथा, महाभारते । १२ । ४३ । ७ । “त्रिचक्षुः शम्भुरेकस्त्वं विभुर्दामोदरोऽपि च ॥”)
सिद्धः । इति शब्दरत्नावली ॥ श्वेतार्कः । इति चन्द्रिका ॥ (अग्निः । यथा, महाभारते । ३ । २२० । ५ । “शम्भुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः । आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् ॥” सुखस्य भावयितरि, त्रि । यथा, ऋग्वेदे । १ । ४६ । १३ । “मनुष्वच्छम्भू आगतम् ॥” “हे शम्भू सुखस्य भावयितारौ ।” इति तद्भाष्ये सायणः ॥)