संस्कृत-शब्दकोशः

शरण्ड शरण्या

शरण्य

वाचस्पत्यम्

शरण्य ||‍ त्रि० शरणाय साधुः यत् । १ शरणागतत्राणकरण- षोम्ये २ दुर्गायां स्त्री । “विषाम्निभयघोरेषु शरणं स्मरणाद् यतः । शरण्या तेन सा देवी पुराणे परिपठ्यते” देवीपु० ।


शब्दकल्पद्रुमः

शरण्यः || त्रि (शृणाति भयमिति । शॄ हिंसा- याम् + “शॄरम्योश्च ।” उणा० ३ । १०१ । इति अन्यः । यद्वा, शरणमिव । शरण + “शाखा दिभ्यो यः ।” ५ । ३ । १०३ । इति यः ।)
रक्षा- कर्त्ता । यथा, —
“ध्येयं सदा परिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् । भृत्यार्त्तिहं प्रणतपालभवाब्धिपोतं वन्दे महापुरुष ते चरणारविन्दम् ॥” इति श्रीभागवतम् ॥



Correction: