वाचस्पत्यम्
शरभू || षु० शरे शरवणे भवति भू—क्विप् । कार्त्तिकेये हेमच०
शब्दकल्पद्रुमः
शरभूः || पुं, (शरे शरवणे भूरुत्पत्तिर्यस्य ।) कार्त्तिकेयः । इति हेमचन्द्रः ॥