वाचस्पत्यम्
श(स)रल || त्रि० शॄ(सृ)—अलच् । १ सुगमे, २ अकुटिलचित्ते (सरल) ३ वृक्षभेदे च ।
शब्दकल्पद्रुमः
शरलः || त्रि विगीतः । स्वच्छहृदयः । वृक्षविशेषे, पुं । इति सारस्वताभिधानम् ॥ दन्त्यसादिरप्यय- मिति बहुसम्मतः ॥