वाचस्पत्यम्
शराटि(डि)(लि) || स्त्री शरमनलक्ष्य अटति अट—इन् पृषो- टस्य डो लो वा । (शराल) पक्षिभेदे अमरः ।
शब्दकल्पद्रुमः
शराटिः || स्त्री (शरं जलं अटति प्राप्नोतीति । अट् + इन् ।) शरालिपक्षी । इति शब्दरत्ना- वली ॥