संस्कृत-शब्दकोशः

शराव शरावार्द्धं

शरावती

वाचस्पत्यम्

शरावती ||‍ स्त्री शराः अन्त्यस्याम् मतुप् यस्य वः पूर्वदीर्घश्च । नदीभेदे अमरः ।


शब्दकल्पद्रुमः

शरावती || स्त्री (शरास्तृणविशेषाः सन्त्यस्या- मिति । शर + मतुप् । “शरादीनाञ्च ।” ६ । ३ । १२० । इति दीर्घः ।)
नदीविशेषः । इत्य- मरः ॥ (यथा, महाभारते । ६ । ९ । २० । “शरावतीं पयोष्णीञ्च वेण्णां भीमरथीमपि ॥” लवस्य राजधानी । यथा, रघुः । १५ । ९७ । “स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् । शरावत्यां सतां सूक्तैः जनिताश्रुलवं लवम् ॥”)



Correction: