वाचस्पत्यम्
शर्कराचल || पु० दानार्थं कल्पिते शर्कराकृते पर्वते । तद्विधिः हेमा० दा० पद्मपुराणे उक्तो यथा “अथातः संप्रवक्ष्यामि शर्कराचलमुत्तमम् । यस्य प्रदा- नाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्वदा । अष्टभिः शर्करामारै रुत्तमः स्यान्महाचलः । चतुर्भिर्मध्यमः प्रोक्तो भारा- भ्यामधरः स्मृतः । भारेण बार्द्धभारेण कुर्य्याद् यः स्वल्पवित्तवान् । विष्कम्भपर्वतान् कुर्य्यात् तुरीयांशेन मानवः । धान्यपर्वतवत्सर्वमासाद्यामरसंयुतम् । मेरो- रुपरि तद्वच्च स्थाप्य हेमतरुत्रयम् । मन्दारः पारिजा- तश्च तृतीयः कल्पपादपः । एतद्वृक्षत्रयं मूर्ध्नि सर्वे- ष्वपि निवेशयेत् । हरिचन्दनसन्तानौ पूर्वपश्चिम- भागयोः । निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले । मन्दारे कामदेवश्च प्रत्यग्वक्त्रः सदा भवेत् । गन्धमादन- शृङ्गे च धनदः स्यादुदङ्मुखः । प्राङ्मुखो वेदमूर्त्तिश्च हंसः स्याद्विपुलाचले । हैमी सुपार्श्वे सुरभी दक्षिणा- भिमुखी भवेत् । धान्यपर्वतवत् सर्वमावाहनमखादिकम्” ।
शब्दकल्पद्रुमः
शर्कराचलः || पुं, (शर्करामयोऽचलः ।)
दानार्थ- कृत्रिमशर्करामयाचलविशेषः । अस्य विवरणं पर्व्वतशब्दे द्रष्टव्यम् ॥