संस्कृत-शब्दकोशः

शर्याति शर्वर

शर्व

वाचस्पत्यम्

शर्व ||‍ पु० शर्व—अच् । १ महादेवे हेमच० । २ विष्णौ विष्णुस० ।


वाचस्पत्यम्

शर्व ||‍ हिसे भवा० पर० सक० सेट् । शर्वति अशर्वीत् ।


शब्दकल्पद्रुमः

शर्व्वः || पुं, (शृणाति सर्व्वाः प्रजाः संहरति प्रलये संहारयति वा भक्तानां पापानि । शॄ + “कॄ गॄ शॄ दॄ भ्यो वः ।” उणा० १ । १५५ । इति वः ।)
शिवः । इति हेमचन्द्रः ॥ (यथा, रघुवंशे । ११ । ९३ । “कतिचिदवनिपालः शर्व्वरीः शर्व्वकल्पः ॥”)
दन्त्यसादिरप्ययम् । विष्णुः । यथा, —
“शर्व्वः सर्व्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।” इति तस्य सहस्रनामस्तोत्रम् ॥


शब्दकल्पद्रुमः

शर्व्व || हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक-सेट् ।)
शर्व्वति । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

शर्व्व || हिंसे । गतौ । इति कविकल्पद्रुमः ॥ शर्व्वति । इति दुर्गादासः ॥



Correction: