वाचस्पत्यम्
शव || पु० न० शव—अच् । मृतदेहे गतप्राणे १ देहे अमरः । २ जले पु० मेदि० ।
वाचस्पत्यम्
शव || विकारे गतौ च भ्वा० पर० सक० सेट् । शवति० अशावीत् अशवीत् ।
शब्दकल्पद्रुमः
शवं || क्ली (शवति गच्छतीति । शव + अच् ।)
जलम् । इति मेदिनी ॥
शब्दकल्पद्रुमः
शवः || पुं, क्ली, (शवति दर्शनेन चित्तं विकरो- तीति । शव विकारे + अच् ।)
मृतशरीरम् । तत्पर्य्यायः । कुणपः २ । इत्यमरः ॥ क्षिति- वर्द्धनः ३ । इति शब्दरत्नावली ॥ मृतकम् ४ । इति वराहपुराणम् ॥ * ॥
तद्दाहविधिर्यथा, —
“नष्टसंज्ञं समुद्दिश्य ज्ञात्वा मृत्युवशं गतम् । महावनस्पतिं गत्वा गन्धांश्च विविधानपि ॥ घृततैलसमायुक्तं कृत्वा वै देहशोधनम् । तेजो व्यपकरं चास्य तत् सर्व्वं परिकल्प्य च ॥ दक्षिणायां शिरः कृत्वा सलिले तं निधाय च । तीर्थाद्यावाहनं कृत्वा स्नापनं तस्य कारयेत् ॥ गयादीनि च तीर्थानि ये च पुण्याः शिलो- च्चयाः । कुरुक्षेत्रञ्च गङ्गा च यमुना च सरिद्वरा ॥ कौशिकी च पयोष्णी च सर्व्वपापप्रणाशिनो । गण्डकी भद्रनामा च सरयूर्बलदा तथा ॥ वनानि नव वाराहं तीर्थं पिण्डारकं तथा । पृथिव्यां यानि तीर्थानि चत्वारः सागरास्तथा ॥ सर्व्वाणि मनसा ध्यात्वा स्नानमेवन्तु कारयेत् । प्राणाद्गतन्तु तं ज्ञात्वा चितां कृत्वा विधानतः ॥ तस्या उपरि तं स्थाप्य दक्षिणाग्रं शिरस्तथा । देवानग्निमुखान् ध्यात्वा गृह्यहस्ते हुताशनम् ॥ प्रज्वाल्य विधिवत्तत्र मन्त्रमेतदुदीरयेत् । कृत्वा सुदुष्करं कर्म्म जानता वाप्यजानता ॥ मृत्युकालवशं प्राप्य नरः पञ्चत्वमागतः । धर्म्माधर्म्मसमायुक्तो लोभमोहसमावृतः ॥ दह एतस्य गात्राणि देवलोकाय गच्छतु । एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणम् ॥ ज्वलमानं तदा वह्निं शिरःस्थाने प्रदापयेत् । चातुर्व्वर्णेषु संस्कारमेवं भवति पुत्त्रक । गात्राणि वाससी चैव प्रक्षाल्य विनिवर्त्तयेत् ॥ मृतनाम ततोद्दिश्य दद्यात् पिण्डं महीतले । तदाप्रभृति चाशौचं दैवकर्म्म न कारयेत् ॥” इति वाराहे श्राद्धोत्पत्तिनामाध्यायः ॥ अन्यत् दाहशब्दे द्रष्टव्यम् ॥ * ॥
तस्य स्पर्शे दोषो यथा, — वाराह उवाच । “स्पृष्ट्वा तु मृतकं भद्रे नरं पञ्चत्वमागतम् । मम शास्त्रं बहिः कृत्वा यः श्मशानं प्रपद्यते ॥ पितरस्तस्य सुश्रोणि आत्मानञ्च पितामहाः । श्मशाने जम्बुका भूत्वा भक्षयन्तः शवांस्तथा ॥ ततो हरेर्व्वचः श्रुत्वा कर्म्मकामा वसुन्धरा । उवाच मधुरं वाक्यं सर्व्वलोकहिताय वै ॥ धरण्युवाच । तव नाथ प्रपन्नानां क्व पापं विद्यते प्रभो । प्रायश्चित्तञ्च मे ब्रूहि येन मुच्यति किल्वि- षात् ॥ वाराह उवाच । शृणु सुन्दरि ! तत्त्वेन यन्मां त्वं परिपृच्छसि । कथयिष्यामि ते हीदं शोभनं पापनाशनम् ॥ एकाहारं दिनान् सप्त त्रिदिनं चाप्युपोषितः । पञ्चगव्यं ततः पीत्वा शीघ्रं मुच्यति किल्वि- षात् ॥ शवे स्पृष्टेऽपराधस्य एष ते कथितो विधिः । सर्व्वथा वर्जनीयो वै सर्व्वभागवतेन तु ॥ य एतेन विधानेन प्रायश्चित्तं समाचरेत् । विमुक्तः सर्व्वपापेभ्यः अपराधो न विद्यते ॥” अपि च । वराह उवाच । “स्पृष्ट्वा तु मृतकं देवि ! यो मत्क्षेत्रेषु तिष्ठति । शतं वर्षसहस्राणि गर्भेषु परिवर्त्तते ॥ दश वर्षसहस्राणि चण्डालश्चैव जायते । अन्धः सप्तसहस्राणि मण्डूकश्च शतं समाः ॥ मक्षिका त्रीणि वर्षाणि टिट्टिभैकादशं समाः । दश वै सप्त चान्यानि कृकलासो भवेत् समाः ॥ हस्ती वर्षशतञ्चैव खरो द्वात्रिंशको भवेत् । मार्ज्जारो नव वर्षाणि वानरो दश पञ्च च ॥ एवं स चात्मदोषेण मम कर्म्मपरायणः । प्राप्नोति सुमहद्दुःखं देवि ! एवं न संशयः ॥ ततो हरेर्व्वचः श्रुत्वा दुःखेन परिपृच्छति । सर्व्वसंसारमोक्षाय प्रत्युवाच वसुन्धरा ॥ किमिदं भाषसे देव मानुषाणां दुरासदम् । वाक्यं भीषणकञ्चैव मम कर्म्मप्रतोदकम् ॥ आचाराच्च परिभ्रष्टस्तव कर्म्मपरायणः । तरन्ति येन दुर्गाणि प्रायश्चित्तं तथा वद ॥ श्रुत्वा पृथ्व्यास्ततो वाक्यं लोकनाथो जनार्द्दनः । धर्म्मसंरक्षणार्थाय प्रत्युवाच वसुन्धराम् ॥ वराह उवाच । स्पृष्ट्वा तु मृतकं भूमे मम कर्म्मपरायणः । एकाहारं ततस्तिष्ठेत् दिनानि दश पञ्च च ॥ तत एवं विधिं कृत्वा पञ्चगव्यं तु प्राशयेत् । शुद्धभावं विशुद्धात्मा कर्म्मणा च न लिप्यते ॥ एतत्ते कथितं देवि स्पृष्ट्वा मृतकमेव च । दोषञ्चैव विबुध्याथ यत्त्वया पूर्व्वपृच्छतम् ॥ य एतेन विधानेन प्रायश्चित्तं समाचरेत् । अपराधविनिर्मुक्तो मम लोकं स गच्छति ॥” इति वाराहे मृतदर्शनस्पर्शनप्रायश्चित्तनामा- ध्यायः ॥ * ॥
शवानुगमनाशौचं यथा । कूर्म्म- पुराणम् । “प्रेतीभूतं द्विजं विप्रो योऽनुगच्छति कामतः । स्नात्वा सचेलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥ एकाहात् क्षत्त्रिये शुद्धिर्वैश्ये च स्यात् द्ब्यहेन तु । शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥” एतच्च घृतप्राशनं शुद्धिहेतुत्वान्नियमपरम् । न तु प्रायश्चित्तवद्भोजनाभावपरम् । तत्र तप- स्त्वात्तथा । अनुः सहार्थः । यत्तु याज्ञवल्क- वचनम् । “ब्राह्मणेनानुगन्तव्यो न तु शूद्रः कथञ्चन । अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक् शुचिः ॥” तत्प्रमादादनुगमने कथञ्चनेत्यभिधानात् । अम्भसि न तूद्धृतोदके ॥ * ॥
शूद्रस्य ब्राह्मण- शववहने दोषो यथा, —
“मृतब्राह्मणदेहांश्च दैवात् शूद्रा वहन्ति चेत् । पदप्रमाणवर्षञ्च तेषाञ्च नरके स्थितिः ॥ ततस्तेषाञ्च साहाय्यं करोति हरिरूपिणी । ददाति मुक्तिं तेभ्योऽपि क्रमेण च कृपामयी ॥ जन्म पुण्यवतां गेहे कारयित्वा च भारते । स्थानं ददाति वैकुण्ठे निश्चितं जन्मभिस्त्रिभिः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४४ अध्यायः शवदषितगृहजलाशयादीनां शुद्धिर्यथा, — ब्रह्मपुराणम् । “येषामभक्ष्यं मांसञ्च तच्छरीरैर्युतञ्च यत् । वापीकूपतडागेषु जलं सर्व्वञ्च दुष्यति ॥” तच्छरीरैर्मृतशरीरैः । उत्तरवचने कुणपग्रह- णात् । यथा, —
“सकुणपं सकर्द्दमं तेभ्यस्तोयमपास्य तत् । प्रक्षिपेत् पञ्चगव्यञ्च समन्त्रं सर्व्वशुद्धिकृत् ॥ अपास्य कुणपं तेभ्यो बहुतोयेभ्य एव वा । शतं षष्ट्यथवा त्रिंशत् तोयकुम्भान् समुद्धरेत् ॥” वापी ससोपाना । निःसोपानः कूपः । तडागः पद्माकरः । शतादिजलाल्पत्वाद्यपेक्षया अत्य- ल्पस्य सर्व्वोद्धारणाभिधानात् । एवं मरण- समये गृहान्निःसार्य्यते अन्यथा गृहस्य दुष्टता स्यात् ॥ यथा, बृहन्मनुः । “श्वशूद्रपतिताश्चान्त्या मृताश्चेद्द्विजमन्दिरे । शौचं तत्र प्रवक्ष्यामि मनुना भाषितं यथा ॥ दशरात्राच्छुनि प्रेते मासाच्छूद्रे भवेच्छुचिः । द्वाभ्यान्तु पतिते गेहे अन्त्ये मासचतुष्टयात् । अत्यन्त्ये वर्ज्जयेद्गेहमित्येवं मनुरब्रवीत् ॥” द्बाभ्यां मासाभ्यां माससन्दंशपाठात् । अन्त्यो म्लेच्छः । अत्यन्त्यः श्वपाकः । इति वाचस्पति- मिश्राः ॥ यमः । “द्बिजस्य मरणे वेश्म विशुध्यति दिनत्रयात् । दिनैकेन बहिर्भूमिरग्निप्रोक्षणलेपनैः ॥” * ॥
यथोक्तकालानन्तरकर्त्तव्यमाह सम्बर्त्तः । “गृहशुद्धिं प्रवक्ष्यामि अन्तस्थशवदूषिते ॥ प्रोत्सृज्य मृण्मयं पात्रं सिद्धमन्नं तथैव च । गृहादपास्य तत् सर्व्वं गोमयेनोपलेपयेत् । गोमयेनोपलिप्पाथ छागेनाघ्रापयेद्बुधः ॥ ब्राह्मणैर्मन्त्रपूतैश्च हिरण्यकुशवारिभिः । सर्व्वमभ्युक्षयेद्बेश्म ततः शुध्यत्यसंशयः ॥” अत्र मन्त्रानादेशे गायत्त्री । देवलः । “पञ्चधा वा चतुर्धा वा भूरमेध्या विशुध्यति । दुष्टा द्विधा त्रिधा वापि शुध्यते मलिनैकधा ॥ दहनं खननं भूमेरुपलेपनवापने । पर्य्यण्यवर्षणञ्चापि शौचं पञ्चविधं स्मृतम् ॥ प्रसूते गर्भिणी यत्र म्रियते यत्र मानुषः । चाण्डालैरूषितं यत्र यत्र विन्यस्यते शवः ॥ विण्मूत्रोपहतं यच्च कुणपो यत्र दृश्यते । एवं कश्मलभूयिष्ठा भूरमेध्याति कथ्यते ॥ कृमिकीटपदक्षेपैर्दूषिता यत्र मेदिनी । एप्सया कर्षणैः क्षिप्ता वान्तैर्व्वा दुष्टतां व्रजेत् ॥ नखदन्ततनूजत्वक्तुषपांशुरजोमलैः । भस्मपङ्कतृणैर्व्वापि प्रच्छन्ना मलिना भवेत् ॥” वापनं मृदन्तरेण पूरणम् । ऊषितं वासः । एप्सा घनीभूतश्लेष्मादि । चतुर्द्धादौ पञ्चानां मध्ये यथासम्भवं ग्रहणम् । अङ्गिराः । “शौचं सहस्ररोमाणां वाय्वग्न्यर्केन्दुरश्मिभिः । रेतस्पृष्टं शवस्पृष्टमाविकं नैव दुष्यति ॥” सहस्ररोमाणां कम्बलानाम् । इति शुद्धि- तत्त्वम् ।
शब्दकल्पद्रुमः
शव || विकारे । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।)
शवति चित्तं कामः । इति दुर्गादासः ॥
वाचस्पत्यम्
शंव || त्रि० शमस्त्यस्य शम् + व । १ शुभयुक्ते त्रिका० । २ सूसला- ग्रलोहे ३ वज्रे च पु० धरणिः ।
शब्दकल्पद्रुमः
शंवः || त्रि (शमस्यास्तीति । शं + “कंशंभ्या- मिति ।” ५ । २ । १३८ । इति वः ।)
शुभा- न्वितः । इति त्रिकाण्डशेषः ॥
शब्दकल्पद्रुमः
शंवः || पुं, मुसलाग्रस्थलौहमण्डलकः । वज्रम् । इति धरणिः ॥