संस्कृत-शब्दकोशः

शवयान शवरथ

शंवर

वाचस्पत्यम्

शवर ||‍ न० शव—अरन् । १ म्लेच्छजातिभेदे अमरः । २ पानीये २ शिवे च पु० मेदि० ३ तत्पत्न्यां स्त्रो ङीष् । ४ शास्त्र- भेदे ५ हस्ते पु० उणादिको० मीमांसाभास्यकारके ६ विद्वद्भेदे ।


शब्दकल्पद्रुमः

शवरः || पुं, (शव + बाहुलकादरः । यद्वा, शवं राति गृह्णातीति । रा + कः ।)
म्लेच्छजाति- विशेषः । इत्यमरः ॥ मयूरपुच्छपरिधानो म्लेच्छः किरातः । पत्रपरिधानः शवरः । इति तट्टी- कायां भरतः ॥ पानीयम् । शिवः । इति मेदिनी ॥ शास्त्रविशेषः । हस्तः । इत्युणादि- कोषः ॥


वाचस्पत्यम्

शंवर ||‍ न० शंवृणोति शम् + वृ—अच् । जले अमरः ।


शब्दकल्पद्रुमः

शंवरं || क्ली (शं वृणोतीति । वृ + अच् ।)
जलम् । इत्यमरः ॥



Correction: