वाचस्पत्यम्
शवल || पु० शव—कलन् । १ कर्वूरवर्णे २ तद्वति त्रि० अमरः । ३ तद्वर्णवत्यां धेनौ स्त्री अमरः ।
शब्दकल्पद्रुमः
श(ब)वलः || पुं, (शप आक्रोशे + “शपेर्ब्बश्च ।” उणा० १ । १०७ । इति कलः बश्चान्तादेशः ।)
कर्व्वुरवर्णः । तद्वति, त्रि । इत्यमरः ॥ (यथा, भागवते । ३ । २३ । २४ । “अङ्गञ्च मलपङ्केन संछन्नं शवलस्तनम् ॥”)