संस्कृत-शब्दकोशः

शशिवाटिका शशोर्ण

शशिशेखर

वाचस्पत्यम्

शशिशेखर ||‍ पु० शशी शेखरं यस्य । महादेवे हला० शशि- मर्द्धादयोऽप्यत्र ।


शब्दकल्पद्रुमः

शशिशेखरः || पुं, (शशी शेखरे यस्य ।)
शिवः । इति हलायुधः ॥ (यथा, कथासरित्सागरे । १ । २२ । “तस्याः स्तुतिवचो हृष्टस्तामङ्कमधिरोप्य सः । किन्ते प्रियं कारोमीति बभाषे शशिशेखरः ॥”)
बुद्धभेदः । तत्पर्य्यायः । हेरम्बः २ हेरुकः ३ चक्रसम्बरः ४ देवः ५ वज्रकपाली ६ निशुम्भी ७ वज्रटीकः ८ । इति त्रिकाण्डशेषः ॥



Correction: