संस्कृत-शब्दकोशः

शश्रू शष

शश्वत्

वाचस्पत्यम्

शश्वत् ||‍ अव्य० शश—वति । १ नैरन्तर्य्ये २ पुनःपुनरित्यर्थे च अमरः ।


शब्दकल्पद्रुमः

शश्वत् || व्य, (शश + बाहुलकाद्बत् ।)
पुनःपुनः । इत्यमरः ॥ (यथा, गीतायाम् । ६ । ३१ । “क्षिप्रं भवति धर्म्मात्मा शश्वच्छान्तिं निय- छति ॥”)



Correction: