संस्कृत-शब्दकोशः

शस्त्रभृत् शस्त्रहत

शस्त्रमार्ज

वाचस्पत्यम्

शस्त्रमार्ज्ज ||‍ पु० शस्त्रं मार्ष्टि मृज—अण् (शिकलकर) शस्त्रमार्ज्जनकरे शिल्पिभेदे अमरः ।


शब्दकल्पद्रुमः

शस्त्रमार्जः || पुं, (शस्त्राणि मार्ष्टीति । मृज + अण् ।)
शस्त्रमार्जनकर्त्ता । सिकल्गर इति भाषा । तत्पर्य्यायः । असिधावकः २ । इत्यमरः ॥ अस्त्र- मार्जः ३ असिधावः ४ । इति शब्दरत्नावली ॥ शाणाजीवः ५ भ्रमासक्तः ६ । इति हेम- चन्द्रः ॥



Correction: