वाचस्पत्यम्
शस्त्रहतचतुर्दशी || स्त्री शस्त्रहतोद्देश्यकश्राद्धाङ्गं चतुर्दशी । गौणाश्विनकृष्णपक्षचतुर्दश्यां तत्र कर्त्तव्यं आद्धवि० दर्शितं यथा “अथ शस्त्रहतचतुर्दशी । विष्णुः युद्धहतानां श्राद्ध- कर्मणि चतुर्दशी प्रशस्ता” । शस्त्रयुद्धहतानामेवेति न नियमार्थम् ब्रह्मपुराणे “प्रायाऽनशनशस्त्राग्निबिषोद्वन्धनिनां तथा । चतुर्दश्यां तु कर्त्तव्यं तृप्त्यर्थमिति निश्चयः” प्रायोमहापथगम- नम् । वायुपुराणे “युवानस्तु गृहे यस्य मृतास्तेषान्तु दापयेत् । शस्त्रेण च हता ये वै तेषां दद्याच्चतुर्द- शीम्” । युवान एव पुत्रादयो मृता इत्यर्थः । मरीचिः “विषशस्त्रश्वापदाहितिर्य्यग्ब्राह्मणघातिनाम् । चतु- दैश्यां क्रिया कार्य्या अन्येषान्तु विगर्हिता” । ब्राह्म- णकृतघातोऽस्यास्तीति ब्राह्मणघाती तेषां, ये च ब्राह्म- णैर्हताः” इति ब्रह्मपुराणवचनात् न तु कृतव्राह्मणा- घातस्य पतितत्वात् । अन्येषाम् अशस्त्रादिहतानाम् एतच्च शस्त्रहतश्राद्धं विष्ण्वादिभिः सामान्यप्रकरण- लिखनात् सकलकृष्णपक्षसाधारणम् पित्रादीनामेय पार्वणविधिप्रकरणात् पार्वणविधिना कार्य्यं “सपि- ण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते । तत्र तत्र त्रयं कुर्य्याद्वर्जयित्वा मृताहनि” इति शङ्खवचनाच्च । मनु “अन्येषान्तु विगर्हिता” इति श्रवणात् कथं त्रैपुरु- षिकपार्वणविधिः न यस्य पुरुषास्त्रय एव शस्त्रहतास्तस्य त्रैपुरुषिकविधिरुपपद्यत एव यस्य द्वौ शस्त्रहतौ एको वा तेनापि द्वैपुरुषिकैकपुरुषिकमेव पार्वणं कर्त्तव्यं यथा मनुः “पिता यस्य तु वृत्तः स्याज्जीवेद्वापि पिता- महः । पितुः स नाम संकीर्त्त्य कीर्त्तयेत् प्रपितामहम्” तथा हारोतः “पितामहोऽपि जीवेद्वै पितर्य्येव समा- पयेत्” । नन्वेकोद्दिष्टमात्रं श्रूयते यथाह गार्म्यः “सपिण्डीकरणादूर्द्ध्वं मृते कृष्णचतुर्दशीम् । प्रतिसंवत्- सरादन्यदेकोद्दिष्टं न कारयेत्” यमः “सपिण्डीकर- णादूर्द्ध्वं यत् पितृभ्यः प्रदीयते । एकोद्दिष्टविधानेन प्रदेयं शस्त्रघातिने” भविष्यपुराणे “समत्वमागतस्यापि पितुः शस्त्रहतस्य च । चतुर्दश्यां तु कर्त्तव्यमेकोद्दिष्टं न पार्वणम् । चतुर्दश्यां तु यत् श्राद्धं सपिण्डीकरणे कृते । एकोद्दिष्टविधानेन प्रदेयं शस्त्रघातिने” उच्यते । एषां वचनानाममूलत्वात् समूलत्वेऽपि पार्वणाशक्तवि- षयकाण्येवैतानि विष्णादिवचनेषु पार्वणावगतेः । भ्रा- त्रादीबान्तु शस्त्रहतावाम् एकोद्दिष्टविधिना कार्य्यम् । “अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये । तेषामपि च देय स्यादेकोद्दिष्टं न पार्वणम्” इत्याप- स्तम्बवचने पार्वणनिषेधात् तच्च न सकलकृष्णपक्षसा- धारणं विष्ण्वादिवचने श्राद्धशब्दस्य पार्वणवरत्वोक्तेः । किन्त्वाश्विनमासीयकृष्णपक्षविपयम् । ब्रह्मपुराणे “प्राया- मशनेत्यादिना सकलकृष्णपक्षसाधारणं श्राद्धमभिधाया- श्विने “तर्पणीयाश्चतुर्दश्यां लुप्तपिण्डोदकक्रियाः” इति पुनरभिधानं तच्छस्त्रहतभ्रात्रादिविषयम् अतएव तत्रैव “अमाबास्यार्या पितरः पूज्या नान्दीमुखा अपीति” वृद्ध- प्रपिताम हादीनामपि श्राद्धं दर्शितम् । इयञ्च चतुर्दश्या- मशस्त्रहतश्राद्धनिन्दा आश्विनमासीयकृष्णयपक्षश्राद्धा- दिकल्पव्यतिरिक्तमामान्यकृष्णपक्षविहितश्राद्धकाम्यश्राद्धवि- घया प्रकरणभेदेन श्राद्धकर्मभेदात् सामान्यविशेषन्या- याच्च इतरथा चतुर्दश्यां संक्रान्तिश्राद्धेऽशस्त्रहतनिन्दा- स्यात् अतएव “कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशी- मिति” भनुवचनेऽपि चतुर्दशीवर्जनं पक्षश्राद्धादिव्यति- रिक्तविषयम् । ननु शस्त्रादिहतानां श्राद्धनिषेधः श्रू- यते यथा छागलेयः “शस्त्रविप्रहतानाञ्च शृङ्गिदंष्ट्रि सरीसृपैः । आत्यनस्त्यागिनाञ्चैव श्राद्धमेषां न कार- येत्” । सत्यं बुद्धिपूर्वकमृतानामेव । प्रमादमृतानाञ्च श्राद्धादिकमाह अङ्गिराः “अथ कश्चित् प्रभादेन म्रियते ऽग्न्युदकादिभिः । अशौचं तस्य कर्त्तव्यं कर्त्तव्या चोद- कक्रिया” । अबुद्धिपूर्वकमपि शृङ्ग्यादिमिः क्रीडां कुर्वतां मृतानां न कर्त्तव्यम् । ब्रह्मपुराणे “शृङ्गिदंष्ट्रि- नखिव्यालविषवह्निस्त्रिया जलैः । आदरात् परिहर्त्तव्यः कुर्वन् क्रीडां मृतस्तु यः” । परिहर्त्तव्यः श्राद्धादौ । शास्त्रानुमत्या बुद्धिपूर्वकमृतानामपि कर्त्तव्यम् । गर्ग्यः “नष्टशौचस्मृतिर्लुप्तप्रत्याख्यतभिषक्क्रियः । आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनादिभिः । तस्य त्रिरात्रमा- शौचं द्वितीये त्वस्थिसञ्चयः । तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमिष्यते” । एवं क्रीडाव्यतिरेकेणाऽवुद्धिपूर्वमृताः शास्त्रानुमत्या च बुद्धिपूर्वकमृता अपि श्राद्धार्हाः । कथम् लुप्तपिण्डोदकत्वम् इति चेद्गौणमिति ब्रूमः बुद्धि- पूर्वकमृते पिण्डोदकक्रियालोपात्” ।
शब्दकल्पद्रुमः
शस्त्रहतचतुर्द्दशी || स्त्री (शस्त्रहतानां चतुर्द्दशी । युद्धादिहतानां श्राद्धादिकर्म्मणि प्रशस्ततया- स्यास्तथात्वम् ।)
गौणाश्विनकृष्णचतुर्द्दशी । गौणकार्त्तिककृष्णचतुर्द्दशी च । यथा, लिङ्ग- पुराणम् । “दीपमालां तथा कृष्णचतुर्द्दश्यां शिवाग्रतः । चतुष्पथे च नद्याञ्च चत्वरेषु गृहेषु च । एकविंशकुलोपेतो वसेच्छिवपुरे नरः ॥” अत्र शस्त्रहतानामुल्कादानं अन्येषान्तु दर्शे । इति संवत्सरकौमुदी ॥ * ॥
अन्यच्च । अथ शस्त्रहतचतुर्द्दशी तत्र विष्णुः । युद्धहतानां श्राद्धकर्म्मणि चतुर्द्दशी प्रशस्ता । युद्धहताना- मेवेति न नियमार्थमिदम् । ब्रह्मपुराणे । “प्रायोऽनशनशस्त्राग्निविषाद्युद्बन्धिनान्तथा । चतुर्द्दश्यान्तु कर्त्तव्यं तृप्त्यर्थमिति निश्चयः ॥” प्रायो महापथगमनम् । वायुपुराणे । “युवानस्तु गृहे यस्य मृषास्तेषान्तु दापयेत् । शस्त्रेण तु हता ये वै तेषां दद्याच्चतुर्द्दशीम् ॥” युवान एव पित्रादयो मृता इत्यर्थः । मरीचिः । “विषशस्त्रश्वापदाहितिर्य्यग्ब्राह्मणघातिनाम् । चतुर्द्दश्यां क्रिया कार्य्या अन्येषान्तु विगर्हिता ॥” ब्राह्मणकृतघातोऽस्यास्तीति ब्राह्मणघाती ये च वै ब्राह्मणैर्हता इति ब्रह्मपुराणवचनात् । न तु कृतब्राह्मणघातः तस्य पतितत्वात् अन्येषाम- शस्त्रादिहतानाम् । एतच्च शस्त्रहतश्राद्धं विष्ण्वादिभिः सामान्यप्रकरणलिखनात् सकल- कृष्णपक्षसाधारणं पित्रादीनामेव पार्व्वणविधि- प्रकरणात् पार्व्वणविधिना कार्य्यम् । “सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते । तत्र तत्र त्रयं कुर्य्याद्बर्ज्जयित्वा मृताहनि ॥” इति शङ्खवचनाच्च ॥ * ॥
ननु अन्येषान्तु विगहिता इति श्रवणात् । कथं त्रैपुरुषिकपार्व्वणविधिः । न यस्य पुरुषास्त्रय एव शस्त्रहतास्तस्य त्रैपुरुषिकविधिरुपपद्यते । एवं यस्य द्वौ शस्त्रहतावेको वा तेनापि द्वैपुरु- षिकैकपुरुषिकं पार्व्वणं कर्त्तव्यम् । यथा, मनुः । “पिता यस्य तु वृत्तः स्यात् जीवेच्चापि पिता- महः । पितुः सनामसङ्कीर्त्त्य कीर्त्तयेत् प्रपितामहम् ॥” तथा हारीतः । “पितामहेऽपि जीवे वै पितर्य्येव समापयेत् ॥” नन्वेकोद्दिष्टमेव श्रूयते । यथा शङ्खः । “सपिण्डीकरणादूर्द्ध्वमृते कृष्णचतुर्द्दशीम् । प्रतिसंवत्सरादन्यदेकोद्दिष्टं न कारयेत् ॥” यमः । “सपिण्डीकरणादूर्द्ध्वं यत् पितृभ्यः प्रदीयते । एकोद्दिष्टविधानेन तत् कार्य्यं शस्त्रघातिने ॥” भविष्यपुराणे । “समत्वमागतस्यापि पितुः शस्त्रहतस्य च । चतुर्दश्यान्तु कर्त्तव्यमेकोद्दिष्टं न पार्व्वणम् ॥ चतुर्द्दश्यान्तु यच्छ्राद्धं सपिण्डीकरणे कृते । एकोद्दिष्टविधानेन तत्कार्य्यं शस्त्रघातिने ॥” * ॥
उच्यते । एषां वचनानाममूलकत्वात् समूलत्वे- ऽपि पार्व्वणाशक्तविषयाण्येतानि विष्ण्वादिवच- नेषु पार्व्वणावगतेः । भ्रात्रादीनान्तु शस्त्रहता- नामेकोद्दिष्टविधिना कार्य्यम् । “अपुत्त्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये । तेषामपि च देयं स्यादेकोद्दिष्टं न पार्व्वणम् ॥” इत्यापस्तम्बवचनेन पार्व्वणनिषेधात् । तच्च न सकलकृष्णपक्षसाधारणं विष्ण्वादिवचनेषु श्राद्ध- शब्दस्य पार्व्वणपरत्वोक्तेः । किन्त्वाश्विनमासीय- कृष्णपक्षविषयम् । ब्रह्मपुराणे प्रायोऽनशने- त्यादिना सकलकृष्णपक्षसाधारणं श्राद्धमभि- धाय आश्विने । तर्पणीयाश्चतुर्द्दश्यां लुप्तपिण्डो- दकक्रिया । इति यत् पुनरभिधानं तच्छस्त्र- हतभ्रात्रादिविषयं अतएव तत्रैवामावास्यायां पितरः पूज्या नान्दीमुखा अपीति वृद्धप्रपिता- महादीनामपि श्राद्धं दर्शितम् । इत्यञ्च चतु- र्द्दश्यामशस्त्रहतश्राद्धनिन्दा आश्विनमासीय- पक्षश्राद्धादिकल्पव्यतिरिक्तसामान्यकृष्णपक्षवि- हितश्राद्धकाम्यश्राद्धविषया प्रकरणभेदेन श्राद्ध- कर्म्मभेदात् सामान्यविशेषन्यायात् इतरथा चतु- र्द्दश्यां संक्रान्तिश्राद्धेऽशस्त्रहतनिन्दा स्यात् । अतएव कृष्णपक्षे दशम्यादौ वर्ज्जयित्वा चतु र्द्दशीमिति मनुवचनेऽपि चतुर्द्दशीवर्ज्जनं पक्ष- श्राद्धादिव्यतिरिक्तश्राद्धविषयम् ॥ * ॥
ननु शस्त्रादिहतानां श्राद्धनिषेधः श्रुयते । तथा छागलेयः । “शस्त्रविप्रहतानाञ्च शृङ्गिदंष्ट्रिसरीसृपैः । आत्मनस्त्यागिनाञ्चैव श्राद्धमेषां न कारयेत् ॥” सत्यं बुद्धिपूर्व्वहतानामेव । प्रमादमृतानान्तु श्राद्धादिकमाहाङ्गिराः । “अथ कश्चित् प्रमादेन म्रियतेऽग्न्युदकादिभिः । अशौचं तस्य कर्त्तव्यं कर्त्तव्या चोदकक्रिया ॥” अबुद्धिपूर्व्वमपि शृङ्ग्यादिभिः क्रीडां कुर्व्वतां मृतानां न कर्त्तव्यम् । यथा, ब्रह्मपुराणम् । “शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रिया जलैः । आदरात् परिहर्त्तव्यः कुर्व्वन् क्रीडां मृतस्तु यः ॥” परिहर्त्तव्यः श्राद्धादौ शास्त्रानुमत्या बुद्धिपूर्व्व- मृतानामपि कर्त्तव्यम् । यथाह वृद्धगार्ग्यः । “वृद्धः शौचस्मृतेर्लुप्तः प्रत्याख्यातभिषक्क्रियः । आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनादिभिः ॥ अस्य त्रिरात्रमशौचं द्बितीये त्वस्थिसञ्चयः । तृतोये तूदकं कृत्वा चतुर्थ श्राद्धमिष्यते ॥” एवं क्रीडाव्यतिरेकेणाबुद्धिपूर्व्वं मृताः शास्त्रानु- मत्या बुद्धिपूर्व्वकमृता अपि श्राद्धार्हाः कथं लुप्तपिण्डोदकत्वमिति चेत् गौणमिति ब्रूमः । बुद्धिपूर्व्वे पिण्डोदकक्रियालोपादिति । इति श्राद्धविवेकः ॥