वाचस्पत्यम्
शस्त्रिन् || त्रि० शस्त्रमस्त्यस्य इनि । शस्त्रविशिष्टे ।
शब्दकल्पद्रुमः
शस्त्री || [न्] त्रि, शस्त्रविशिष्टः । अस्त्रधारी । शस्त्रशब्दादिन्प्रत्ययेन निष्पन्नमेतत् ॥ (यथा, कामन्दकीयनीतिसारे । ७ । ३७ । “आप्तशस्त्र्यनुगतः प्रविशेच्च सङ्कटेषु गहनेषु न तिष्ठेत् ॥”)