संस्कृत-शब्दकोशः

शाकटाख्य शाकटिक

शाकटायन

वाचस्पत्यम्

शाकटायन ||‍ पु० व्याकरणकारके मुनिभेदे “इन्द्रश्चन्द्रः काश कृत्स्त्न्यापिशली शाकटायनः । पाणिन्यमरजैनेन्द्राः ज- यन्त्यष्टादिशाव्दिकाः” कविकल्पद्रुमः ।


शब्दकल्पद्रुमः

शाकटायनः || पुं, (शकटस्यापत्यं पुमान् । शकट + “नडादिभ्यः फक् ।” ४ । १ । ९९ । इति फक् ।)
अष्ट- शाब्दिकान्तर्गतशाब्दिकविशेषः । यथा, —
“इन्द्रश्चन्द्रः काशकृत्स्ना पिशली शाकटा- यनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥” इति कविकल्पद्रुमः ॥ (अयन्तु नाममात्रं धातुनिष्पन्नमाह । यथा, कातन्त्रे कृत्सु उणादयो भूतेऽपि इत्यत्र त्रिलोचनः । “नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकः । यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥”)



Correction: