वाचस्पत्यम्
शाकतरु || पु० शाकाख्यः तरुः । (सेगुण) वृक्षे शब्दच० । शाकवृक्षादयोऽप्यत्र ।
शब्दकल्पद्रुमः
शाकतरुः || पुं, (शाकाख्यस्तरुः ।) शाकवृक्षः । इति शब्दमाला ॥ सागौन इति हिन्दी भाषा ॥