शाकयोग्य
शाकल
शाकराज
वाचस्पत्यम्
शाकराज || पु० शाकेषु राजते अच्, शाकानां वा राजा टच् समा० । वास्तूकशाके राजनि० ।
शब्दकल्पद्रुमः
शाकराजः || पुं, (शाकानां राजा निर्दोषत्वात् । “राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
वास्तूकम् । इति राजनिर्घण्टः ॥