शाकवृक्ष
शाकशाकिन
शाकशाकट
वाचस्पत्यम्
शाकशाकट || न० शाकस्य क्षेत्रं शाकटच् । शाकक्षेत्रे । शाकटिनच् शाकशाकटिन अत्रार्थे हेमच० ।
शब्दकल्पद्रुमः
शाकशाकटं || क्ली (शाकानां भवनं क्षेत्रम् । शाक + “भवने क्षेत्रे शाकटशाकिनौ ।” इति शाकटः ।)
शाकक्षेत्रम् । इति हेमचन्द्रः ॥