संस्कृत-शब्दकोशः

शाका शाकाङ्ग

शाकाख्य

शब्दकल्पद्रुमः

शाकाख्यं || क्ली (शाक इति आख्या यस्य ।)
पत्रपुष्पादि । इत्यमरः ॥ “व्यञ्जनयोग्यं पत्रपुष्पादि शाकपदवाच्यम् । आदिना फलमूलादिग्रहः । यदुक्तम् । ‘मूलपत्रकरीराग्रफलकाण्डाधिरूढकम् । त्वक् पुष्पं करकञ्चैव शाकं दशविधं स्मृतम् ॥’ तत्र मूलं मूलकादेः । पत्रं पटोलादेः । करीरं वंशाङ्कुरादि । अग्रं वेत्रादेः । फलं कुष्माण्डादेः । काण्डं उत्पलादिनाडी । अधिरूढं तालास्थि- मज्जा । अधिरूढोऽङ्कुर इति केचित् । त्वक् मातुलुङ्गादेः । पुष्पं कोविदारादेः । करकं छत्रिका । शक्यते भोक्तुमनेनेति शाकम् । श्यति सामर्थ्यं तनूकरोति शो तनूकरणे बाहुल्यात् कः शाकमित्यन्ये ।” इति तट्टीकायां भरतः ॥


शब्दकल्पद्रुमः

शाकाख्यः || पुं, (शाक इति आख्या यस्य ।)
शाक- वृक्षः । इति रत्नमाला ॥ अस्य पर्य्यायगुणौ शाकशब्दे द्रष्टव्यौ ॥



Correction: