संस्कृत-शब्दकोशः

शाकुण शाकुनिक

शाकुन

वाचस्पत्यम्

शाकुन ||‍ पु० शकुनं शुभाशुभसूचकं निमित्तमधिकृत्य कृतो ग्रन्थः अण् । शकुनज्ञानसाधने ग्रन्थे (काकचरित) । “शुभाशुभज्ञानविनिर्णयार्थो हेतुर्नृणां यः शकुनः स उक्तः । गतिस्वरालोकनभावचेष्टां संकीर्त्तयामोद्वि- पदादिकानाम् । लोकोऽमुना शाकुनसंज्ञकेन ज्ञानेन विज्ञातसमस्तकर्म्मा । नापायकूपे पतति प्रसर्पन् शास्त्रं हि दिव्या दृगतीन्द्रियेषु” वसन्ताजिः ।


शब्दकल्पद्रुमः

शाकुनः || पुं, (शकुनमधिकृत्य कृतो ग्रन्थः । शकुन + अण् ।)
पशुपक्ष्यादिरूपशकुनद्वारा मनुष्य- शुभाशुभनिश्चायकग्रन्थः । तस्येमौ श्लोकौ । “शुभाशुभज्ञानविनिर्णयाय हेतुर्नृणां यः शकुनः स उक्तः । गतिः स्वरालोकनभावचेष्टां संकीर्त्तयामो द्बिपदादिकानाम् ॥ लोकोऽमुना शाकुनसंज्ञकेन ज्ञानेन विज्ञातसमस्तकार्य्यः । नापायकूपे पतति प्रसर्पन् शास्त्रं हि दिव्या दृगतीन्द्रियेषु ॥” इति वसन्तराजशाकुने १ सर्गः ॥ (शकुनस्यायमिति । शकुन + “तस्येदम् ।” ४ । ३ । १२० । इति अण् । पक्षिसम्बन्धी । यथा, मनुः । ३ । २६८ । “द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥”)



Correction: