वाचस्पत्यम्
शाक्यमुनि || पु० शाक्यो मुनिः । बुद्धभेदे अमरः!
शब्दकल्पद्रुमः
शाक्यमुनिः || पुं, शाक्यवंशावतीर्णबुद्धमुनिविशेषः । इत्यमरः ॥ अस्य सप्त पर्य्याया गोतमशब्दे द्रष्टव्याः । पर्य्यायान्तरं यथा । खजित् २ श्वेत- केतुः ३ धर्म्मकेतुः ४ महामुनिः ५ पञ्च- ज्ञानः ६ सर्व्वदर्शी ७ महाबोधिः ८ महाबलः ९ बहुक्षमः १० त्रिमूर्त्तिः ११ सिद्धार्थः १२ शकः १३ । इति शब्दरत्नावली ॥ शाक्यवंश- त्वात् शाक्यः शाक्यश्चासौ मुनिश्चेति शाक्य- मुनिः । तथा हि शाको वृक्षविशेषः तत्र भवा विद्यमानाः शाक्याः । पितुः शापेन केचिदिक्ष्वा- कुवंश्या गौतमवंशजकपिलमुनेराश्रमे शाक- वृक्षे कृतवासाश्च शाक्या उच्यन्ते । तदुक्तम् । “शाकवृक्षप्रतिच्छन्नं वासं यस्मात् प्रचक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इतिश्रुताः ॥” इत्यमरटीकायां भरतः ॥