संस्कृत-शब्दकोशः

शाखाल शाखिन्

शाखाशिफा

वाचस्पत्यम्

शाखाशिफा ||‍ स्त्री शाखारूढा शिफा मूलम् शाक० । वटा- दीनां शाखाजाते १ मूले अमरः । २ शिफामारभ्य शाखा युतायां गुडूच्यादिलतायाम् भरतः ।


शब्दकल्पद्रुमः

शाखाशिफा || स्त्री (शाखायाः शिफा ।)
वटा- दीनां शाखासम्बन्धिशिफा । नाम्ना इति ख्याता । तरोर्मूलादारभ्य अग्रं यावत् गता लतागुडूच्यादिः । इति भरतः ॥ तत्पर्य्यायः । अवरोहः २ । इत्यमरः ॥



Correction: