संस्कृत-शब्दकोशः

शाङ्ख शाङ्गुष्ठा

शाङ्खिक

वाचस्पत्यम्

शाङ्खिक ||‍ पुंस्त्री० शङ्खस्तद्विकारबलयनिर्माणं शिल्पमस्य ठञ् । जातिभेदे (शाँखारी) अमरः स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

शाङ्खिकः || पुं, (शङ्खकरणं शिल्पमस्य इति । शङ्ख + ठक् ।)
जातिविशेषः । शाँखारि इति भाषा । तत्पर्य्यायः । काम्बविकः २ । इत्यमरः ॥ शङ्खकारः ३ काम्बजकः ४ । इति शब्दरत्ना- वली ॥ शङ्खवादकः । तत्पर्य्यायः । शङ्खध्माः २ । इति जटाधरः ॥



Correction: