शाट
शाटिका
शाटक
वाचस्पत्यम्
शाटक || पु० न० शट—ण्वुल् । वस्त्रे अमरः स्त्रीत्वमपि टाप् ।
शब्दकल्पद्रुमः
शाटकः || पुं क्ली, (शाट + स्वार्थे कन् ।)
पटः । (यथा, कथासरित्सागरे । ५३ । ३८ । “स राजवन्दिनामा तद्दत्त्वा शाटकमग्रहीत् ॥”)
नाटकभेदः । इत्यमरभरतौ ॥