संस्कृत-शब्दकोशः

शाणाजीव शाणित

शाणि

वाचस्पत्यम्

शाणि ||‍ पु० शण—इण् । १ पट्टवृक्षे शब्दच० । शणेन निर्वृत्ता इञ् वा ङीप् । २ शणनिर्मिते पट्टिकावस्त्रे ३ सच्छिद्रवस्त्रे च हेमच० ४ हस्तकटाक्षादिसूचनायां शब्दर० । ५ वस्त्र- मण्डपे (ताँवु) मेदि० ।


शब्दकल्पद्रुमः

शाणिः || पुं, पट्टवृक्षः । यथा, —
“पट्टेराजशणः शाणिश्चिमिः कक्खटपत्रकः ॥” इति शब्दमाला ॥



Correction: