वाचस्पत्यम्
शान्तनव || पु० शान्तनोरपत्यम् अण् । भीष्मे “भीष्मः शान्तनव” इति तत्तर्पणमन्त्रः ।
शब्दकल्पद्रुमः
शान्तनवः || पुं, (शान्तनोरपत्यं पुमान् । शान्तनु + अण् ।)
शान्तनुराजपुत्त्रः । भीष्मः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । १ । ३६ । ९० । “तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः । वसुवीर्य्यात् समभवत् महावीर्य्यो महायशाः ॥”)