वाचस्पत्यम्
शाब्दबोध || पु० शब्देन निर्वृत्तः अण् कर्म० । अन्वयबोधे शब्द- ज्ञानजन्ये पदार्थस्मृतिद्बारके ज्ञानभेदे न्यायमतम् । शा- ब्दत्वं त्वनुभवत्वव्याप्यं जातिभेदः तद्बोधप्रकारादि भाषा० उक्तं यथा “पदज्ञानन्तु करणं द्वारं तत्र पदा- र्षधीः । शाब्दबोधः फलं तत्र शक्तिधोः सहकारिणी । लक्षणा शक्यसम्बन्धस्तात्पर्य्यानुपपत्तितः । आसत्तियो- ग्यताकाङ्क्षातात्पर्य्यज्ञानमिष्यते” । भाषा० सि० मु० विवृत- मेतत् यथा “शाब्दबोधप्रकारं दर्शयति । पदज्ञानन्त्विते । न तु ज्ञायमानं पदं करणम् पदाभावेऽपि मौनिश्लोकादौ शाब्दवोधात् । पदार्थधीरिति । पदजन्यपदार्थस्मरणं व्यापारः । अन्यथा पदज्ञानवतः प्रत्यक्षादिना पदार्थो- पस्थितावपि शब्दबोधापत्तेः । तत्रापि वृत्त्या पद- जन्यत्वं बोध्यम् । अन्यथा घटादिपदात् समवायसम्ब- न्धेन यत्राकाशस्मरणं जायते तत्राकाशस्यापि शाब्द- मोधापत्तेः । वृत्तिः शक्तिलक्षणान्यतरः सम्बन्घः । अत्रैव शक्तिज्ञानस्योषयोगः । पूर्वं शक्तिग्रहाभावे पद- ज्ञानेऽपि तत्सम्बन्धेन स्मरणानुपपत्तेः । पदज्ञानस्य सम्बन्धिज्ञानविधयार्थस्मारकत्वम् । शक्तिश्च पदेन सह पदार्थस्य सम्बन्धः । सा चास्माच्छब्दादयमर्थो बोद्धव्य इतीश्वरेच्छारूपा । आधुनिके नाम्नि शक्तिरस्त्येव । “एकादशेऽहनि पिता नाम कुर्य्यात्” इतीश्वरेच्छायाः सत्त्वात् । आधुनिके तु सङ्केते न शक्तिरिति सम्प्रदायः । नघ्यास्तु ईश्वरेच्छा न शक्तिः किन्त्विच्छैव । तेन आधु- निकसङ्केतेऽपि शक्तिरस्तीति वदन्ति” ।
शब्दकल्पद्रुमः
शाब्दबोधः || पुं, (शाब्दः शब्दसम्बन्धी बोधः ।)
शब्दार्थज्ञानम् । न्यायमते पदार्थज्ञानजन्य- ज्ञानम् । तस्य करणं पदज्ञानम् । तस्य कारणं पदशक्तिज्ञानम् । कदाचित् लक्षणाज्ञानम् । एवं आकाङ्क्षायोग्यतासत्तितात्पर्य्यज्ञानञ्च । यथा, —
“पदज्ञानन्तु करणं द्वारं तत्र पदार्थधीः । शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी ॥” इति भाषापरिच्छेदः ॥ * ॥
शाब्दबोधप्रकारं दर्शयति पदज्ञानन्त्विति । न तु ज्ञायमानं पदं करणं पदाभावेऽपि मौनि- श्लोकादौ शाब्दबोधात् । पदार्थधीरिति पद- जन्यपदार्थस्मरणं व्यापारः । अन्यथा पदज्ञान- वतः प्रत्यक्षादिना पदार्थोपस्थितावपि शाब्द- बोधापत्तेः । तत्रापि वृत्त्या पदजन्यत्वं बोध्यं अन्यथा घटादिपदात् समवायसम्बन्धेन आकाश- स्मरणे जाते आकाशस्यापि शाब्दबोधापत्तेः । वृत्तिः शक्तिलक्षणान्यतरसम्बन्धः । अत्रैव शक्ति- ज्ञानस्य उपयोगः । पूर्व्वं शक्तिग्रहाभावे पदज्ञानेऽपि तत्सम्बन्धेन स्मरणानुपपत्तेः । पदज्ञानस्य हि सम्बन्धिज्ञानविधेयार्थस्मार- कत्वम् । * । शक्तिश्च पदेन सह पदार्थस्य सम्बन्धः । अस्माच्छब्दादयमर्थो बोद्धव्य इती- श्वरेच्छारूपा आधुनिके नाम्नि शक्तिरस्त्येव एकादशेऽहनि पिता नाम कुर्य्यादितीश्वरे- च्छायाः सत्त्वात् आधुनिके तु सङ्केते न शक्ति- रिति सम्प्रदायः । नव्यास्तु ईश्वरेच्छा न शक्तिः किन्त्विच्छैव तेनाधुनिकसङ्केतेऽपि शक्तिरस्तीति वदन्ति । * । शक्तिग्रहश्च व्याकरणादितः । तथा हि । “शक्तिग्रहं व्याकरणोपमान- कोषाप्तवाक्याद्ब्यवहारतश्च । वाक्यस्य शेषाद्बिवृतेर्व्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥” धातुप्रकृतिप्रत्ययादीनां शक्तिग्रहो व्याकरणाद्- भवति क्वचित्तु सति बाधके त्यज्यतेऽपि । यथा, वैयाकरणैराख्यातस्य कर्त्तरि शक्तिरुच्यते । चैत्रः पचतीत्यादौ कर्त्रा सह चैत्रस्याभेदान्वय- स्तत्र गौरवान्न जन्यते किन्तु कृतौ शक्तिग्रहो लाघवात् । कृतिश्चैत्रादौ प्रकारीभूय भासते । न च कर्त्तुरनभिधानाच्चैत्रादिपदानन्तरं तृतीया स्यादिति वाच्यं कर्त्तृसंख्यानभिधानस्य तत्र तन्त्रत्वात् । संख्याभिधानयोग्यश्च कर्म्मत्वाद्यन- वरुद्धः । प्रथमान्तपदोपस्थाप्यकर्म्मत्वादीत्यस्य विशेषणत्वतात्पर्य्याविषयत्वमर्थः तेन चैत्र इव गच्छतीत्यादौ न चैत्रे संख्यान्वयः । यत्र कर्म्मादौ न विशेषणत्वतात्पर्य्यं तद्वारणाय प्रथमान्तेति । यद्वा धात्वर्थातिरिक्ताविशे- षणत्वं प्रथमदलार्थः तेन चैत्र इव गच्छ- तीत्यत्र चैत्रादेर्व्वारणं स्तोकं पचतीत्यादौ स्तोकादेर्व्वारणाय च द्वितीयदलम् । तस्य द्वितीयान्तोपस्थाप्यत्वाद्बारणम् । एवं व्यापारे- ऽपि न शक्तिर्गौरवात् । रथो गच्छति इत्यादौ तु स्वव्यापारे आश्रयत्वे वा लक्षणा । जानाति इत्यादौ तु आश्रयत्वे नश्यतीत्यादौ प्रतियोगित्वे निरूढलक्षणा । उपमानाद्यथा शक्तिग्रह- स्तथोक्तम् ॥ * ॥
एवं कोषादपि शक्तिग्रहः सति बाधके क्वचित्त्यज्यते यथा नीलादि- पदानां नीलरूपादौ नीलादिविशिष्टे च शक्तिः कोषे व्युत्पादिता तथापि लाघवात् नीलादौ शक्तिः नीलादिविशिष्टे लक्षणेति ॥ * ॥
एव- माप्तवाक्यादपि । यथा, कोकिलः पिकपद- वाच्यः इत्यादिशब्दात् पिकादिशक्तिग्रहः ॥ * ॥
एवं व्यवहारादपि । यथा, प्रयोजकवृद्धेन घट- मानयेत्युक्तं तत् श्रुत्वा प्रयोज्यवृद्धेन घट आनीत- स्तदवधार्य्य पार्श्वस्थो बालो घटानयनरूपं कार्य्यम् । घटमानय इति शब्दप्रयोज्यं अव- धारयति ततश्च घटमपसारय गामानय इत्यादौ आवापोद्बापाभ्यां घटादिपदानां कार्य्यान्वित- घटादौ शक्तिं गृह्णाति ॥ * ॥
एवं वाक्यशेषा- दपि शक्तिग्रहः । यथा यवमयश्चरुर्भवतीत्यत्र यवपदस्य दीर्घशूकविशिष्टे आर्य्याणां प्रयोगः कङ्गौ च म्लेच्छानाम् । तत्र हि यथान्या ओष- धयो म्लायन्ते तथैते मोदमाना इवोत्तिष्ठन्ति ॥ “वसन्ते सर्व्वशस्यानां जायते पत्रशातनम् । मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः ॥” इति वाक्यशेषात् दीर्घशूके शक्तिर्निर्णीयते कङ्गौ तु शक्तिभ्रमात् प्रयोगः । नानाशक्ति- कल्पने गौरवात् । हरिपदादौ तु विनिगमका- भावान्नानाशक्तिकल्पनम् ॥ * ॥
एवं विवरणा- दपि शक्तिग्रहः । विवरणन्तु तत्समानार्थ- पदान्तरेण तदर्थकथनम् । यथा घटोऽस्ति इत्यस्य कलसोऽस्तीत्यनेन विवरणाद्वटपदस्य कलसे शक्तिग्रहः । एवं पचति इत्यस्य पाकं करोति इत्यनेन विवरणादाख्यातस्य यत्नार्थकत्वं कल्प्यते ॥ * ॥
एवं प्रसिद्धपदसान्निध्यादपि शक्तिग्रहः । यथा । इह सहकारतरौ मधुरं पिको रौति इत्यादौ पिकपदस्य शक्तिग्रह इति । तत्र जातावेव शक्तिर्न तु व्यक्तौ व्यभि- चारादानन्त्याच्च ॥ * ॥
शक्तं पदन्तु क्वचिद्- यौगिकं क्वचिद्रूढं क्वचिद्योगरूढं क्वचिद्- यौगिकरूढम् । यत्रावयवार्थ एव बुध्यते तद्- यौगिकं यथा पाचकादिपदम् । यत्रावयव- शक्तिनैरपेक्षेण समुदायशक्तिमात्रेण बुध्यते तद्रूढं यथा गोपदमण्डपादि पदम् । यत्र तु अवयवशक्तिविषये समुदायशक्तिरप्यस्ति तद्- योगरूढं यथा पङ्कजादिपदम् । तथा हि पङ्कजपदमवयवशक्त्या पङ्कजनिकर्त्तृरूपमर्थं बोधयति समुदायशक्त्या च पद्मत्वेन रूपेण पद्मं बोधयति । यत्र अवयवार्थरूढ्यर्थयोः स्वात- न्त्र्येण बोधस्तद्यौगिकरूढं यथोद्भिदादिपदम् । तत्र हि ऊर्द्ध्वभेदनकर्त्ता तरुगुल्मादिरपि बुध्यते । इति सिद्धान्तमुक्तावली ॥