वाचस्पत्यम्
शाम्भव || पु० शम्भोरयम् अण् । १ गुग्गुलौ २ कर्पूरे ३ शिव- मल्लिकायां राजनि० । ४ विषभेदे शब्दच० ५ शम्भुपुत्रे पु० ६ देवदारुणि च न० र जवि० ७ शिवसम्बन्धिनि ८ तदुपासके च त्रि० । ९ दुर्गायां स्त्री “शाम्भवी कुपिता तस्येति” तन्त्रम् ।
शब्दकल्पद्रुमः
शाम्भवं || क्ली (शम्भोरुपवेशाय इदम् । अण् ।)
देवदारु । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
शाम्भवः || पुं, कर्पूरः । शिवमल्ली । गुग्गुलुः । इति राजनिर्घण्टः ॥ विषभेदः । इति शब्दचन्द्रिका ॥ शम्भुपुत्त्रः । शम्भुपूजकः । शम्भुसम्बन्धिनि, त्रि ॥ (यथा, कथासरित्सागरे । १२ । १६७ । “तत्र च प्रविशन्त्यग्रे बहवः शाम्भवा गणाः ॥”)