वाचस्पत्यम्
शा(सा)यक || पु० शो (सो) वा—ण्वुल् । १ वाणे खङ्गे च जटा०
शब्दकल्पद्रुमः
शायकः is an alternate of सायकः. सा(शा)यकः || पुं, (स्यति छिनत्तीति । सो + ण्वुल् + युक् ।)
बाणः । (यथा, रामायणे । २ । ३१ । ३० ! “अभेद्ये कवचे दिव्ये तूणौ चाक्षय्यसायकौ ॥”)
खड्गः । इत्यमरः । ३ । ३ । २ ॥ (यथा, महा- भारते । ४ । ४० । १४ । “कस्य पाञ्चनखे कोषे सायको हेमविग्रहः । प्रमाणरूपसम्पन्नः पीत आकाशसन्निभः ॥” पञ्चमसंख्या । यथा, साहित्यदर्पणे । ४ । २६४ । “सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया । वेदखाग्निशराः शुद्धैरिषुबाणाग्निसायकाः ॥”)
शब्दकल्पद्रुमः
शायकः || पुं, (शाययति शत्रून् । शी + णिच् + ण्वुल् । यद्वा, शेते तूणीरे इति । शी + ण्वुल् ।)
बाणः । इति जटाधरः ॥ (यथा, नैषधचरिते । ४ । १०१ । “प्रियसखीनिवहेन सहाथ सा व्यरचयद्गिरमर्द्धसमस्यया । हृदयमर्म्मणि मन्मथशायकैः क्षततमा बहु भाषितुमक्षमा ॥”)
खड्गः । इत्यमरटीकायां स्वामी ॥