वाचस्पत्यम्
शारिवा || स्त्री शारिरिव वनति वन—ड । श्यामालतायाम् अमरः । “एकं वै शारिवामूलं सर्वव्रणविशोषणम्” वैद्य० ।
शब्दकल्पद्रुमः
शारिवा || स्त्री श्यामलता । तत्पर्य्यायः । गोपी २ श्यामा ३ अनन्ता ४ उत्पलशारिवा ५ । इत्य- मरः ॥ “पञ्च श्यामलतायाम् । नागजिह्वाया- मिति केचित् । गोप्यादित्रयं श्यामलतायां अनन्तादिद्बयं अनन्तमूले इति केचित् । गुपू रक्षणे शोणादित्वादीप् गोपा च । ‘गोपीश्यामा गोपपत्नी गोपा गोपालिकापि च ।’ इति वाचस्पतिः । ‘एकं वा शारिवामूलं सर्व्वव्रणविशोधनम् ।’ इति वैद्यकम् ।” इति भरतः ॥ अस्या गुणः । वायुपित्तरक्ततृष्णाच्छर्दिज्वर- नाशित्वम् । इति राजवल्लभः ॥