संस्कृत-शब्दकोशः

शारिशृङ्खला शारीर

शारी

वाचस्पत्यम्

शारी is an alternate of शारि. शारि(री) ||‍ स्त्री शॄ—इञ् वा ङीप् । १ पाशकादिगुटिकायां २ अक्षोपकरणे च मेदि० । ३ पक्षिभेदे च “शारीं चरन्तीं सखि! भारयेति” नैषधम् । ४ युद्धार्थगजपर्थ्याणे ५ व्यवहारभेदे मेदि० । ६ कपटे धरणिः । स्वार्थे क । पक्षिभेदे वीणावादने च हेमच० ।


शब्दकल्पद्रुमः

शारी || स्त्री (शॄ + इञ् । वा ङीष् ।)
कुशा । इति केचित् ॥ (शकुनिकाभेदः । यथा, आर्य्या- सप्तशत्याम् । ६२३ । “सा विरहदहनदूना मृत्वा मृत्वापि जीवति वराकी । शारीव कितव भवतानुकूलिता पातिताक्षेण ॥”)



Correction: