संस्कृत-शब्दकोशः

शालनिर्यास शालभञ्जिका

शालपर्णी

वाचस्पत्यम्

शालपर्णी ||‍ स्त्री शालस्येव पर्णान्यस्याः ङीष् । (शालपानी) वृक्षभेदे राजनि० । “शालपर्णी गरच्छर्द्दिज्वरश्वासा- तिसारजित् । शोषदोषत्रयहरी वृंहण्युक्ता रसायनी । तिक्ता विषहरी स्वादुः क्षतकासक्रमिप्रणुत्” भावप्र० ।


शब्दकल्पद्रुमः

शालपर्णी || स्त्री (शालस्य पर्णवत् पर्णमस्याः । ङीष् ।)
वृक्षविशेषः । शालपाणी इति भाषा । तत्पर्य्यायः । सुदला २ सुपत्री ३ स्थिरा ४ सौम्या ५ कुमुदा ६ गुहा ७ ध्रुवा ८ विदारिगन्धा ९ अंशुमती १० सुपर्णिका ११ दीर्घमूला १२ दीर्घपत्रिका १३ वातघ्री १४ पीतिनी १५ तन्वी १६ सुधा १७ सर्व्वानुकारिणी १८ शोफघ्री १९ सुभगा २० देवी २१ निश्चला २२ व्रीहिपर्णिका २३ सुमूला २४ सुरूपा २५ शुभपत्रिका २६ सुपर्णी २७ शालिपत्री २८ शालिदला २९ । इति राजनिर्घण्टः । विदारी ३० सालपर्णी ३१ । इत्यमरटीकायां भरतः ॥ अस्या गुणाः । ग्राहित्वम् । कफपित्तनाशि- त्वञ्च । इति राजवल्लभः ॥ तिक्तत्वम् । गुरु- त्वम् । उष्णत्वम् । वातदोषविषमज्वरमेहार्शः- शोफसन्तापनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “शालपर्णी स्थिरा सौम्या त्रिपर्णी पीवरा गुहा । विदारिगन्धा दीर्घाङ्घ्रिर्दीर्घपत्रांशुमत्यपि ॥ शालपर्णी गरच्छर्द्दिज्वरश्वासातिसारजित् । शोषदोषत्रयहरी वृंहण्युक्ता रसायनी । तिक्ता विषहरी स्वादुः क्षतकाशकृमिप्रणुत् ॥” इति भावप्रकाशः ॥



Correction: