वाचस्पत्यम्
शालूक is an alternate of शालुक. शालु(लू)क || न० शाल—उकञ् । कुमुदादिमले शब्दर० । ऊकञ् । तत्रार्थे अमरः । २ जातोफले राजनि० ।
शब्दकल्पद्रुमः
शालूकं || क्ली (शल + “शलिमण्डिभ्यामूकण् ।” उणा० ४ । ४२ । इति ऊकण् ।)
कुमुदादि- मूलम् । इत्यमरः ॥ जातीफलम् । इति राज- निर्घण्टः ॥
शब्दकल्पद्रुमः
शालूकः || पुं, (शल + “शलिमण्डिभ्यामूकण् ।” उणा० ४ । ४२ । इत्यूकण् ।)
कुमुदादिमूलम् । इति त्रिकाण्डशेषः ॥ (यथा, बृहत्संहिता- याम् । ४१ । ३ । “मिथुनेपि धान्यशारदवल्लीशालूककार्पासाः ॥”)
मण्डूकः । इति राजनिर्घण्टः ॥