वाचस्पत्यम्
शाल्मली is an alternate of शाल्मलि. शाल्मलि(ली) || पुं स्त्री० शाल—मलिच् वा स्त्रोत्वे वा ङीप् । (शिमुल) १ वृक्षे २ मोचरसे हेमच० । शाल्मलिगुणादिकं भावप्र० उक्तं यथा “शाल्मली शीतला स्वच्छा रसे पाके रसायनी । शे- ष्मला स्निग्धवीजा च वृ हणो रक्तपित्तजित् । शाल्मली- पुष्पशाकन्तु धृतसैन्धवसाधितम् । प्रदरं नाशयत्येव दुःसाध्यञ्च न संशयः । रसे पाके च मधुरं कषायं शातलं गुरु । कफपित्तास्रजित् ग्राहि वातलं च प्रको- र्त्तितम् । ३ नरकभेदे यत्र शाल्मलीकण्ठकैर्नारकिणः पीड्यन्ते नरकशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
शाल्मली || स्त्री (शाल्मलि + कृदिकारादिति वा ङीष् ।)
शाल्मलिवृक्षः । इत्यमरः ॥ शलति दैर्घात् दूरं गच्छति शाल्मलिः । शल ज गतौ नाम्नीति मलिण् वृद्धिः । द्बयोरित्युक्ते स्त्रीपक्षे पाच्छोणादीति ईपि शल्मली च शाल्मलिश्चेति केचित् तन्मते विभाषया वृद्धिः । शल्मली रक्त- पुष्पा च ककुटी चिरजीविका इति कोषान्तर- मिति मुकुटः । इत्यमरटीकायां भरतः ॥