संस्कृत-शब्दकोशः

शाल्मलीफल शाल्मलीवेष्टक

शाल्मलीवेष्ट

वाचस्पत्यम्

शाल्मलीवेष्ट ||‍ पु० शाल्भलीं वेष्टयति वेष्ट—अण् । शाल्मली- निर्य्यासे मोचरमे रत्नमा० । ण्वुल् । तत्रैव ।


शब्दकल्पद्रुमः

शाल्मलीवेष्टः || पुं, (शाल्मल्या वेष्टः ।)
शाल्मलि- निर्यासः । शिमुल आठा इति भाषा ॥ तत्- पर्य्यायः । पिच्छा २ । इत्यमरः ॥ मोचरसः ३ शाल्मलः ४ शाल्मलीवेष्टकः ५ । इति रत्न- माला ॥ मोचस्रावः ६ मोचनिर्यासः ७ । अस्य गुणाः । “मोचस्रावो हिमो ग्राही स्निग्धो वृष्यः कषायकः । प्रवाहिकातिसारामकफपित्तास्रदाहनुत् ॥” इति भावप्रकाशः ॥



Correction: