संस्कृत-शब्दकोशः

शाष्कुलिक शासन

शास

वाचस्पत्यम्

शास ||‍ आशीर्वादे अदा० आत्म० सक० सेट् क्त्वा वेट् । पाये- णाङ् पूर्वः । आशास्ते आशासिष्ट “इद कविभ्यः पू० र्वेभ्योनमोवाकं प्रशास्महे” उत्तरचरितोक्तेरन्यपूर्वोऽपि ।

वाचस्पत्यम्

शास ||‍ शासने अदा० पर० द्विक० सेट् क्त्वा वेट् । शास्ति अशासत्

शब्दकल्पद्रुमः

शास || उ क्ष लु शासने । इति कविकल्पद्रुमः ॥ (अदा०-पर०-सक०-सेट् । क्तावेट् ।)
उ, शासित्वा शिष्ट्वा । क्ष, शासति । लु, शास्ति । शास्ति यश्चाज्ञया राज्ञः स सम्राडित्यमरः । इति दुर्गादासः ॥

शब्दकल्पद्रुमः

शास || ङ उ आशिषि । इति कविकल्पद्रुमः ॥ (भ्वा०-अदा० च-आत्म०-सक०- सेट् ।)
आङ्पूर्ब्बा इति केवलानामन्यपूर्ब्बा- णाञ्च प्रयोगनिरासार्थम् । किन्तु इदं गुरुभ्यः पूर्ब्बेभ्यो नमो वाकं प्रशास्महे । इत्युत्तरचरिते प्रपूर्ब्बोऽपि दृश्यते । ङ, आशासते । उ, आशा- सित्वा आशास्त्वा । पञ्चमस्वरानुबन्धसामर्थ्यात् क्त्राप्रत्ययस्य न यप् समासाभावादिति गोविन्द- भट्टः । किन्तु अस्य उदनुबन्धफलं छन्दस्येवेति धातुप्रदीपः । ल ङ, आशास्ते शासु ङिद्धस ङे इत्यत्र जक्षादीयशास्तेरेव ग्रहणादस्योपधाया इकारो न स्यात् । आशीरिष्टार्थाशंसनम् । इच्छायामित्यन्ये । इति दुर्गादासः ॥

शब्दकल्पद्रुमः

शास || ल ङ आशिषि । इति कविकल्पद्रुमः ॥ (भ्वा०-अदा० च-आत्म०-सक०- सेट् ।)

Correction: